Sukta 8.47
नेह भद्रं रक्षस्विने नावयै नोपया उत । गवे च भद्रं धेनवे वीराय च श्रवस्यतेऽनेहसो व ऊतयः सुतयो व ऊतयः ॥
नेह भ॒द्रं र॑क्ष॒स्विने॒ नाव॒यै नोप॒या उ॒त । गवे॑ च भ॒द्रं धे॒नवे॑ वी॒राय॑ च श्रवस्य॒ते॑ऽने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥
néha bhadráṃ rakṣasvíne nā́vayái nópayā́ utá | gáve ca bhadráṃ dhénave vīrā́ya ca śravasyaté ’nehasaḥ vo ūtáyaḥ su-ūtáyaḥ vo ūtáyaḥ ||
Let no good here go to the one who moves in the Rakṣas, neither to the one who comes down nor to the one who comes near with hostile intent. But let the good be for the Light-ray (cow) and for the nourishing power (milch-cow), and for the hero who seeks the true hearing of fame. May your harmless helps, your good helps, be with us.
न । इ॒ह । भ॒द्रम् । र॒क्ष॒स्विने॑ । न । अ॒व॒ऽयै । न । उ॒प॒ऽयै । उ॒त । गवे॑ । च॒ । भ॒द्रम् । धे॒नवे॑ । वी॒राय॑ । च॒ । श्र॒व॒स्य॒ते । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥न । इह । भद्रम् । रक्षस्विने । न । अवयै । न । उपयै । उत । गवे । च । भद्रम् । धेनवे । वीराय । च । श्रवस्यते । अनेहसः । वः । ऊतयः । सुऊतयः । वः । ऊतयः ॥na | iha | bhadram | rakṣasvine | na | ava-yai | na | upa-yai | uta | gave | ca | bhadram | dhenave | vīrāya | ca | śravasyate | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ