Sukta 8.47
आदित्या अव हि ख्यताधि कूलादिव स्पशः । सुतीर्थमर्वतो यथानु नो नेषथा सुगमनेहसो व ऊतयः सुतयो व ऊतयः ॥
आदि॑त्या॒ अव॒ हि ख्यताधि॒ कूला॑दिव॒ स्पश॑: । सु॒ती॒र्थमर्व॑तो य॒थानु॑ नो नेषथा सु॒गम॑ने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥
ādityā́ áva hí khyátādhi kū́lād iva spáśaḥ | su-tī́rtham árvato yáthā́nu no neṣathā su-gám anehasaḥ vo ūtáyaḥ su-ūtáyaḥ vo ūtáyaḥ ||
O Ādityas, look down—like watchers from a river-bank—and lead us along, as one leads horses, to a good ford, to an easy passage. May your harmless helps, your good helps, be with us.
आदि॑त्याः । अव॑ । हि । ख्यत॑ । अधि॑ । कूला॑त्ऽइव । स्पशः॑ । सु॒ऽती॒र्थम् । अर्व॑तः । य॒था॒ । अनु॑ । नः॒ । ने॒ष॒थ॒ । सु॒ऽगम् । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥आदित्याः । अव । हि । ख्यत । अधि । कूलात्इव । स्पशः । सुतीर्थम् । अर्वतः । यथा । अनु । नः । नेषथ । सुगम् । अनेहसः । वः । ऊतयः । सुऊतयः । वः । ऊतयः ॥ādityāḥ | ava | hi | khyata | adhi | kūlāt-iva | spaśaḥ | su-tīrtham | arvataḥ | yathā | anu | naḥ | neṣatha | su-gam | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ