Sukta 8.46
यो दुष्टरो विश्ववार श्रवाय्यो वाजेष्वस्ति तरुता । स नः शविष्ठ सवना वसो गहि गमेम गोमति व्रजे ॥
यो दु॒ष्टरो॑ विश्ववार श्र॒वाय्यो॒ वाजे॒ष्वस्ति॑ तरु॒ता । स न॑: शविष्ठ॒ सव॒ना व॑सो गहि ग॒मेम॒ गोम॑ति व्र॒जे ॥
yó duṣṭáro viśvavāra śravā́yyo vā́jeṣv ásti tarutā́ | sá naḥ śaviṣṭha savánā ā v́aso gahi gaméma gómati vráje ||
He who is hard to overcome, who holds every desirable good, who is truly to be heard and followed, and who is the victorious force in the plenitudes—come to our Soma-pressings, O most puissant one, O giver of richness; may we arrive at the luminous herdfold where the Rays of knowledge abound.
यः । दु॒स्तरः॑ । वि॒श्व॒ऽवा॒र॒ । श्र॒वाय्यः॑ । वाजे॑षु । अस्ति॑ । त॒रु॒ता । सः । नः॒ । श॒वि॒ष्ठ॒ । सव॑ना । आ । व॒सो॒ इति॑ । ग॒हि॒ । ग॒मेम॑ । गोऽम॑ति । व्र॒जे ॥यः । दुस्तरः । विश्ववार । श्रवाय्यः । वाजेषु । अस्ति । तरुता । सः । नः । शविष्ठ । सवना । आ । वसो इति । गहि । गमेम । गोमति । व्रजे ॥yaḥ | dustaraḥ | viśva-vāra | śravāyyaḥ | vājeṣu | asti | tarutā | saḥ | naḥ | śaviṣṭha | savanā | ā | vaso iti | gahi | gamema | go--mati | vraje