Sukta 8.46
यस्ते मदो वरेण्यो य इन्द्र वृत्रहन्तमः । य आददिः स्वर्नृभिर्यः पृतनासु दुष्टरः ॥
यस्ते॒ मदो॒ वरे॑ण्यो॒ य इ॑न्द्र वृत्र॒हन्त॑मः । य आ॑द॒दिः स्व१॒॑र्नृभि॒र्यः पृत॑नासु दु॒ष्टर॑: ॥
yás te mádo váreṇyo yá índra vṛtrahán-tamaḥ | yá ādadíḥ svàr nṛ́bhir yáḥ pṛ́tanāsu dúṣṭaraḥ ||
That ecstasy of yours is the most to be chosen, O Indra—most supreme in the slaying of obstruction; you who have taken the heaven-light with the human powers, you who are hard to cross in the battles: make that victorious force active in us.
यः । ते॒ । मदः॑ । वरे॑ण्यः । यः । इ॒न्द्र॒ । वृ॒त्र॒हन्ऽत॑मः । यः । आ॒ऽद॒दिः । स्वः॑ । नृऽभिः॑ । यः । पृत॑नासु । दु॒स्तरः॑ ॥यः । ते । मदः । वरेण्यः । यः । इन्द्र । वृत्रहन्तमः । यः । आददिः । स्वः । नृभिः । यः । पृतनासु । दुस्तरः ॥yaḥ | te | madaḥ | vareṇyaḥ | yaḥ | indra | vṛtrahan-tamaḥ | yaḥ | ādadiḥ | svaḥ | nṛ-bhiḥ | yaḥ | pṛtanāsu | dustaraḥ