Sukta 8.46
तस्मिन्हि सन्त्यूतयो विश्वा अभीरवः सचा । तमा वहन्तु सप्तयः पुरूवसुं मदाय हरयः सुतम् ॥
तस्मि॒न्हि सन्त्यू॒तयो॒ विश्वा॒ अभी॑रव॒: सचा॑ । तमा व॑हन्तु॒ सप्त॑यः पुरू॒वसुं॒ मदा॑य॒ हर॑यः सु॒तम् ॥
tásmin hí sánty ūtáyo víśvā abhī́ravaḥ sácā | tám ā́ vahantu saptáyaḥ purūvásuṃ mádāya hárayaḥ sutám ||
In him indeed are all the fearless helps, accompanying him. Let the seven-yoked bring him here—Indra rich in plenitude—for the ecstasy: the tawny steeds bringing the pressed Soma.
तस्मि॑न् । हि । सन्ति॑ । ऊ॒तयः॑ । विश्वाः॑ । अभी॑रवः । सचा॑ । तम् । आ । व॒ह॒न्तु॒ । सप्त॑यः । पु॒रु॒ऽवसु॑म् । मदा॑य । हर॑यः । सु॒तम् ॥तस्मिन् । हि । सन्ति । ऊतयः । विश्वाः । अभीरवः । सचा । तम् । आ । वहन्तु । सप्तयः । पुरुवसुम् । मदाय । हरयः । सुतम् ॥tasmin | hi | santi | ūtayaḥ | viśvāḥ | abhīravaḥ | sacā | tam | ā | vahantu | saptayaḥ | puru-vasum | madāya | harayaḥ | sutam