Sukta 8.46
दधानो गोमदश्ववत्सुवीर्यमादित्यजूत एधते । सदा राया पुरुस्पृहा ॥
दधा॑नो॒ गोम॒दश्व॑वत्सु॒वीर्य॑मादि॒त्यजू॑त एधते । सदा॑ रा॒या पु॑रु॒स्पृहा॑ ॥
dadhā́no gómat áśvavat suvī́ryam ādityá-jūta edhate | sádā rāyā́ puru-spṛ́hā ||
Bearing a wealth that is luminous with rays (cows) and dynamic powers (horses), and a hero-force of right becoming, he grows by the impulsion of the Adityas; always he increases with riches that many desire.
दधा॑नः । गोऽमत् । अश्व॑ऽवत् । सु॒ऽवीर्य॑म् । आ॒दि॒त्यऽजू॑तः । ए॒ध॒ते॒ । सदा॑ । रा॒या । पु॒रु॒ऽस्पृहा॑ ॥दधानः । गोमत् । अश्ववत् । सुवीर्यम् । आदित्यजूतः । एधते । सदा । राया । पुरुस्पृहा ॥dadhānaḥ | go--mat | aśva-vat | su-vīryam | āditya-jūtaḥ | edhate | sadā | rāyā | puru-spṛhā