Sukta 8.46
सुनीथो घा स मर्त्यो यं मरुतो यमर्यमा । मित्रः पान्त्यद्रुहः ॥
सु॒नी॒थो घा॒ स मर्त्यो॒ यं म॒रुतो॒ यम॑र्य॒मा । मि॒त्रः पान्त्य॒द्रुह॑: ॥
sunī́tho ghā́ sá mártyo yáṃ marúto yám aryamā́ | mitráḥ pā́nty ádruhaḥ ||
Truly well-led is that mortal whom the Maruts and Aryaman—and Mitra, the undeceiving—protect: he moves on the right path of the Truth.
सु॒ऽनी॒थः । घ॒ । सः । मर्त्यः॑ । यम् । म॒रुतः॑ । यम् । अ॒र्य॒मा । मि॒त्रः । पान्ति॑ । अ॒द्रुहः॑ ॥सुनीथः । घ । सः । मर्त्यः । यम् । मरुतः । यम् । अर्यमा । मित्रः । पान्ति । अद्रुहः ॥su-nīthaḥ | gha | saḥ | martyaḥ | yam | marutaḥ | yam | aryamā | mitraḥ | pānti | adruhaḥ