Sukta 8.46
शतं दासे बल्बूथे विप्रस्तरुक्ष आ ददे । ते ते वायविमे जना मदन्तीन्द्रगोपा मदन्ति देवगोपाः ॥
श॒तं दा॒से ब॑ल्बू॒थे विप्र॒स्तरु॑क्ष॒ आ द॑दे । ते ते॑ वायवि॒मे जना॒ मद॒न्तीन्द्र॑गोपा॒ मद॑न्ति दे॒वगो॑पाः ॥
śatám dāsé balbūthé vípras tárukṣa ā́ dade | té té vāyav imé jánā madántī́ndragopā madánti devágopāḥ ||
A hundred, to the servant Balbūtha, the inspired one Tarukṣa gave. These people, O Vāyu, rejoice—guarded by Indra they rejoice, guarded by the Gods they rejoice—when the life-breath and the luminous powers secure the inner community.
श॒तम् । दा॒से । ब॒ल्बू॒थे । विप्रः॑ । तरु॑क्षे । आ । द॒दे॒ । ते । ते॒ । वा॒यो॒ इति॑ । इ॒मे । जनाः॑ । मद॑न्ति । इन्द्र॑ऽगोपाः । मद॑न्ति । दे॒वऽगो॑पाः ॥शतम् । दासे । बल्बूथे । विप्रः । तरुक्षे । आ । ददे । ते । ते । वायो इति । इमे । जनाः । मदन्ति । इन्द्रगोपाः । मदन्ति । देवगोपाः ॥śatam | dāse | balbūthe | vipraḥ | tarukṣe | ā | dade | te | te | vāyo iti | ime | janāḥ | madanti | indra-gopāḥ | madanti | deva-gopāḥ