Sukta 8.46
यो अश्वेभिर्वहते वस्त उस्रास्त्रिः सप्त सप्ततीनाम् । एभिः सोमेभिः सोमसुद्भिः सोमपा दानाय शुक्रपूतपाः ॥
यो अश्वे॑भि॒र्वह॑ते॒ वस्त॑ उ॒स्रास्त्रिः स॒प्त स॑प्तती॒नाम् । ए॒भिः सोमे॑भिः सोम॒सुद्भि॑: सोमपा दा॒नाय॑ शुक्रपूतपाः ॥
yó aśvébhir váhate váste usrā́s tríḥ saptá saptatī́nām | ebhíḥ sómebhíḥ somasút-bhiḥ soma-pā dā́nāya śukrapūta-pāḥ ||
He who comes borne by the horses and dwells with the shining dawn-cows—three times seven of the seventies—by these Soma-pressings, O Soma-drinker, come for the giving, you who drink the clarified and purified brilliance.
यः । अश्वे॑भिः । वह॑ते । वस्ते॑ । उ॒स्राः । त्रिः । स॒प्त । स॒प्त॒ती॒नाम् । ए॒भिः । सोमे॑भिः । सो॒म॒सुत्ऽभिः॑ । सो॒म॒ऽपाः॒ । दा॒नाय॑ । शु॒क्र॒पू॒त॒ऽपाः॒ ॥यः । अश्वेभिः । वहते । वस्ते । उस्राः । त्रिः । सप्त । सप्ततीनाम् । एभिः । सोमेभिः । सोमसुत्भिः । सोमपाः । दानाय । शुक्रपूतपाः ॥yaḥ | aśvebhiḥ | vahate | vaste | usrāḥ | triḥ | sapta | saptatīnām | ebhiḥ | somebhiḥ | somasut-bhiḥ | soma-pāḥ | dānāya | śukrapūta-pāḥ