Sukta 8.46
दानासः पृथुश्रवसः कानीतस्य सुराधसः । रथं हिरण्ययं ददन्मंहिष्ठः सूरिरभूद्वर्षिष्ठमकृत श्रवः ॥
दाना॑सः पृथु॒श्रव॑सः कानी॒तस्य॑ सु॒राध॑सः । रथं॑ हिर॒ण्ययं॒ दद॒न्मंहि॑ष्ठः सू॒रिर॑भू॒द्वर्षि॑ष्ठमकृत॒ श्रव॑: ॥
dā́nāsaḥ pṛthú-śrávasaḥ kānī́tasya su-rā́dhasaḥ | ráthaṃ hiraṇyáyaṃ dádad maṃhíṣṭhaḥ sū́rir abhūd várṣiṣṭham akṛta śrávaḥ ||
These gifts of broad-famed Kāṇīta, rich in right abundance: giving a golden chariot, he became the most bountiful lord; he made the fame most raining—an outpouring of lasting luminous renown.
दाना॑सः । पृ॒थु॒ऽश्रव॑सः । का॒नी॒तस्य॑ । सु॒ऽराध॑सः । रथ॑म् । हि॒र॒ण्यय॑म् । दद॑त् । मंहि॑ष्ठः । सू॒रिः । अ॒भू॒त् । वर्षि॑ष्ठम् । अ॒कृ॒त॒ । श्रवः॑ ॥दानासः । पृथुश्रवसः । कानीतस्य । सुराधसः । रथम् । हिरण्ययम् । ददत् । मंहिष्ठः । सूरिः । अभूत् । वर्षिष्ठम् । अकृत । श्रवः ॥dānāsaḥ | pṛthu-śravasaḥ | kānītasya | su-rādhasaḥ | ratham | hiraṇyayam | dadat | maṃhiṣṭhaḥ | sūriḥ | abhūt | varṣiṣṭham | akṛta | śravaḥ