Sukta 8.46
षष्टिं सहस्राश्व्यस्यायुतासनमुष्ट्रानां विंशतिं शता । दश श्यावीनां शता दश त्र्यरुषीणां दश गवां सहस्रा ॥
ष॒ष्टिं स॒हस्राश्व्य॑स्या॒युता॑सन॒मुष्ट्रा॑नां विंश॒तिं श॒ता । दश॒ श्यावी॑नां श॒ता दश॒ त्र्य॑रुषीणां॒ दश॒ गवां॑ स॒हस्रा॑ ॥
ṣaṣṭíṃ sahásrā aśvyásyāyútāsanam uṣṭrā́nāṃ viṃśatíṃ śatā́ | dáśa śyā́vīnām śatā́ dáśa try-àruṣīṇāṃ dáśa gávāṃ sahásrā ||
Sixty thousand of the horse-force, and ten-thousands as the seat of attainment; of camels, twenty hundreds; of the dark ones, ten hundreds; of the three-reddened, ten hundreds; of cows, ten thousands—so is the measured plenitude gathered.
ष॒ष्टिम् । स॒हस्रा॑ । अश्व्य॑स्य । अ॒युता॑ । अ॒स॒न॒म् । उष्ट्रा॑नाम् । विं॒श॒तिम् । श॒ता । दश॑ । श्यावी॑नाम् । श॒ता । दश॑ । त्रिऽअ॑रुषीणाम् । दश॑ । गवा॑म् । स॒हस्रा॑ ॥षष्टिम् । सहस्रा । अश्व्यस्य । अयुता । असनम् । उष्ट्रानाम् । विंशतिम् । शता । दश । श्यावीनाम् । शता । दश । त्रिअरुषीणाम् । दश । गवाम् । सहस्रा ॥ṣaṣṭim | sahasrā | aśvyasya | ayutā | asanam | uṣṭrānām | viṃśatim | śatā | daśa | śyāvīnām | śatā | daśa | tri-aruṣīṇām | daśa | gavām | sahasrā