Sukta 8.46
आ स एतु य ईवदाँ अदेवः पूर्तमाददे । यथा चिद्वशो अश्व्यः पृथुश्रवसि कानीतेऽस्या व्युष्याददे ॥
आ स ए॑तु॒ य ईव॒दाँ अदे॑वः पू॒र्तमा॑द॒दे । यथा॑ चि॒द्वशो॑ अ॒श्व्यः पृ॑थु॒श्रव॑सि कानी॒ते॒३॒॑ऽस्या व्युष्या॑द॒दे ॥
ā́ sá etu yá ī́vadā́ṃ ádevaḥ pūrtám ādadé | yáthā cid váśo aśvyáḥ pṛthú-śrávasi kānī́te ’syā́ vyuṣyā́dadé ||
Let him come—he who, though not moving with the gods, yet takes the full offering; even as Vaśa the horseman, in broad-famed Kāṇīta, took her at the dawning-out.
आ । सः । ए॒तु॒ । यः । ईवत् । आ । अदे॑वः । पू॒र्तम् । आ॒ऽद॒दे । यथा॑ । चि॒त् । वशः॑ । अ॒श्व्यः । पृ॒थु॒ऽश्रव॑सि । कानी॒ते । अ॒स्याः । वि॒ऽउषि॑ । आ॒ऽद॒दे ॥आ । सः । एतु । यः । ईवत् । आ । अदेवः । पूर्तम् । आददे । यथा । चित् । वशः । अश्व्यः । पृथुश्रवसि । कानीते । अस्याः । विउषि । आददे ॥ā | saḥ | etu | yaḥ | īvat | ā | adevaḥ | pūrtam | ādade | yathā | cit | vaśaḥ | aśvyaḥ | pṛthu-śravasi | kānīte | asyāḥ | vi-uṣi | ādade