Sukta 8.46
सनितः सुसनितरुग्र चित्र चेतिष्ठ सूनृत । प्रासहा सम्राट् सहुरिं सहन्तं भुज्युं वाजेषु पूर्व्यम् ॥
सनि॑त॒: सुस॑नित॒रुग्र॒ चित्र॒ चेति॑ष्ठ॒ सूनृ॑त । प्रा॒सहा॑ सम्रा॒ट् सहु॑रिं॒ सह॑न्तं भु॒ज्युं वाजे॑षु॒ पूर्व्य॑म् ॥
sánitaḥ su-sánitar ugrá citrá cétiṣṭha sū́nṛta | prā-sáhā sam-rā́ṭ sáhurim sáhantaṃ bhujyúṃ vā́jeṣu pū́rvyam ||
O strong and luminous Winner, most discerning and true in speech, overpowering and sovereign—conquer the assailing power; uphold for us the ancient Enjoyer in the fields of Vāja, the plenitude of effective force.
सनि॑त॒रिति॑ । सुऽस॑नितः । उग्र॑ । चित्र॑ । चेति॑ष्ठ । सूनृ॑त । प्र॒ऽसहा॑ । सम्ऽरा॒ट् । सहु॑रिम् । सह॑न्तम् । भु॒ज्युम् । वाजे॑षु । पूर्व्य॑म् ॥सनितरिति । सुसनितः । उग्र । चित्र । चेतिष्ठ । सूनृत । प्रसहा । सम्राट् । सहुरिम् । सहन्तम् । भुज्युम् । वाजेषु । पूर्व्यम् ॥sanitariti | su-sanitaḥ | ugra | citra | cetiṣṭha | sūnṛta | pra-sahā | sam-rāṭ | sahurim | sahantam | bhujyum | vājeṣu | pūrvyam