Sukta 8.46
त्वां हि सत्यमद्रिवो विद्म दातारमिषाम् । विद्म दातारं रयीणाम् ॥
त्वां हि स॒त्यम॑द्रिवो वि॒द्म दा॒तार॑मि॒षाम् । वि॒द्म दा॒तारं॑ रयी॒णाम् ॥
tvā́ṃ hí satyám adrivo vidmá dātā́ram iṣā́m | vidmá dātā́raṃ rayīṇā́m ||
You indeed are the True, O wielder of the thunderstone; we know you as the giver of inner impulsion and nourishment, we know you as the giver of the riches of being.
त्वाम् । हि । स॒त्यम् । अ॒द्रि॒ऽवः॒ । वि॒द्म । दा॒तार॑म् । इ॒षाम् । वि॒द्म । दा॒तार॑म् । र॒यी॒णाम् ॥त्वाम् । हि । सत्यम् । अद्रिवः । विद्म । दातारम् । इषाम् । विद्म । दातारम् । रयीणाम् ॥tvām | hi | satyam | adri-vaḥ | vidma | dātāram | iṣām | vidma | dātāram | rayīṇām