Sukta 8.46
त्वावतः पुरूवसो वयमिन्द्र प्रणेतः । स्मसि स्थातर्हरीणाम् ॥
त्वाव॑तः पुरूवसो व॒यमि॑न्द्र प्रणेतः । स्मसि॑ स्थातर्हरीणाम् ॥
tvā́vataḥ purū́vaso vayám indra praṇétaḥ | smási sthā́tar harīṇām ||
We are yours who are guarded by you, O Indra rich in plenitude; you are our leader: we stand established with your powers of swift force.
त्वाऽव॑तः । पु॒रु॒व॒सो॒ इति॑ पुरुऽवसो । व॒यम् । इ॒न्द्र॒ । प्र॒ने॒त॒रिति॑ प्रऽनेतः । स्मसि॑ । स्था॒तः॒ । ह॒री॒णा॒म् ॥त्वावतः । पुरुवसो इति पुरुवसो । वयम् । इन्द्र । प्रनेतरिति प्रनेतः । स्मसि । स्थातः । हरीणाम् ॥tvāvataḥ | puruvaso itipuru-vaso | vayam | indra | pranetaritipra-netaḥ | smasi | sthātaḥ | harīṇām