Sukta 8.46
ये पातयन्ते अज्मभिर्गिरीणां स्नुभिरेषाम् । यज्ञं महिष्वणीनां सुम्नं तुविष्वणीनां प्राध्वरे ॥
ये पा॒तय॑न्ते॒ अज्म॑भिर्गिरी॒णां स्नुभि॑रेषाम् । य॒ज्ञं म॑हि॒ष्वणी॑नां सु॒म्नं तु॑वि॒ष्वणी॑नां॒ प्राध्व॒रे ॥
yé pātáyante ájmabhir girīṇā́ṃ snúbhir eṣām | yajñáṃ mahíṣvaṇīnām súmnaṃ tuvíṣvaṇīnām prá adhvaré ||
Those who speed with their impetuous strides along the mountains, with their streaming powers—may their sacrifice go forward in the journey; may the bliss of the great-sounding ones, the mighty-sounding ones, increase in the rite.
ये । पा॒तय॑न्ते । अज्म॑ऽभिः । गि॒री॒णाम् । स्नुऽभिः॑ । ए॒षा॒म् । य॒ज्ञम् । म॒हि॒ऽस्वणी॑नाम् । सु॒म्नम् । तु॒वि॒ऽस्वणी॑नाम् । प्र । अ॒ध्व॒रे ॥ये । पातयन्ते । अज्मभिः । गिरीणाम् । स्नुभिः । एषाम् । यज्ञम् । महिस्वणीनाम् । सुम्नम् । तुविस्वणीनाम् । प्र । अध्वरे ॥ye | pātayante | ajma-bhiḥ | girīṇām | snu-bhiḥ | eṣām | yajñam | mahi-svaṇīnām | sumnam | tuvi-svaṇīnām | pra | adhvare