Sukta 8.46
विश्वेषामिरज्यन्तं वसूनां सासह्वांसं चिदस्य वर्पसः । कृपयतो नूनमत्यथ ॥
विश्वे॑षामिर॒ज्यन्तं॒ वसू॑नां सास॒ह्वांसं॑ चिद॒स्य वर्प॑सः । कृ॒प॒य॒तो नू॒नमत्यथ॑ ॥
víśveṣām irajyántaṃ vásūnāṃ sāsahvā́ṃsaṃ cid asyá várpasaḥ | kṛpáyato nū́nam áty átha ||
Even among all riches he is the one desired; even by sheer presence and form he overpowers. Now, then, go beyond our poverty of consciousness—have compassion and exceed it.
विश्वे॑षाम् । इ॒र॒ज्यन्त॑म् । वसू॑नाम् । स॒स॒ह्वांस॑म् । चि॒त् । अ॒स्य । वर्प॑सः । कृ॒प॒ऽय॒तः । नू॒नम् । अति॑ । अथ॑ ॥विश्वेषाम् । इरज्यन्तम् । वसूनाम् । ससह्वांसम् । चित् । अस्य । वर्पसः । कृपयतः । नूनम् । अति । अथ ॥viśveṣām | irajyantam | vasūnām | sasahvāṃsam | cit | asya | varpasaḥ | kṛpa-yataḥ | nūnam | ati | atha