Sukta 8.46
अभि वो वीरमन्धसो मदेषु गाय गिरा महा विचेतसम् । इन्द्रं नाम श्रुत्यं शाकिनं वचो यथा ॥
अ॒भि वो॑ वी॒रमन्ध॑सो॒ मदे॑षु गाय गि॒रा म॒हा विचे॑तसम् । इन्द्रं॒ नाम॒ श्रुत्यं॑ शा॒किनं॒ वचो॒ यथा॑ ॥
abhí vo vī́ram ándhaso mádeṣu gāya girā́ mahā́ vicétasam | índraṃ nā́ma śrútyaṃ śā́kinaṃ váco yáthā ||
Sing to him, your hero, in the raptures of Soma, with a great utterance—Indra of wide discernment—so that the word may be effective, making his name heard as the capable doer.
अ॒भि । वः॒ । वी॒रम् । अन्ध॑सः । मदे॑षु । गा॒य॒ । गि॒रा । म॒हा । विऽचे॑तसम् । इन्द्र॑म् । नाम॑ । श्रुत्य॑म् । शा॒किन॑म् । वचः॑ । यथा॑ ॥अभि । वः । वीरम् । अन्धसः । मदेषु । गाय । गिरा । महा । विचेतसम् । इन्द्रम् । नाम । श्रुत्यम् । शाकिनम् । वचः । यथा ॥abhi | vaḥ | vīram | andhasaḥ | madeṣu | gāya | girā | mahā | vi-cetasam | indram | nāma | śrutyam | śākinam | vacaḥ | yathā