Sukta 8.46
स नो वाजेष्वविता पुरूवसुः पुरस्थाता मघवा वृत्रहा भुवत् ॥
स नो॒ वाजे॑ष्ववि॒ता पु॑रू॒वसु॑: पुरस्था॒ता म॒घवा॑ वृत्र॒हा भु॑वत् ॥
sá no vā́jeṣv avitā́ purūvásuḥ puraḥsthā́tā maghávā vṛtrahā́ bhuvat ||
May he be our helper in the plenitudes of force—rich in many goods—standing in front as our leader; may the bounteous one, the slayer of the Coverer, become for us.
सः । नः॒ । वाजे॑षु । अ॒वि॒ता । पु॒रु॒ऽवसुः॑ । पु॒रः॒ऽस्था॒ता । म॒घऽवा॑ । वृ॒त्र॒ऽहा । भु॒व॒त् ॥सः । नः । वाजेषु । अविता । पुरुवसुः । पुरःस्थाता । मघवा । वृत्रहा । भुवत् ॥saḥ | naḥ | vājeṣu | avitā | puru-vasuḥ | puraḥ-sthātā | magha-vā | vṛtra-hā | bhuvat