Sukta 8.46
नहि ते शूर राधसोऽन्तं विन्दामि सत्रा । दशस्या नो मघवन्नू चिदद्रिवो धियो वाजेभिराविथ ॥
न॒हि ते॑ शूर॒ राध॒सोऽन्तं॑ वि॒न्दामि॑ स॒त्रा । द॒श॒स्या नो॑ मघव॒न्नू चि॑दद्रिवो॒ धियो॒ वाजे॑भिराविथ ॥
náhi te śūra rā́dhaso’ntáṃ vindā́mi satrā́ | daśasyá no maghavannū́ cíd adrivo dhíyo vā́jebhir āvitha ||
I find no limit at all to thy giving, O Hero. Do thou be gracious to us, O bounteous one; even now, O wielder of the stone, thou hast upheld our thoughts with victorious powers.
न॒हि । ते॒ । शू॒र॒ । राध॑सः । अन्त॑म् । वि॒न्दामि॑ । स॒त्रा । द॒श॒स्य । नः॒ । म॒घ॒ऽव॒न् । नु । चि॒त् । अ॒द्रि॒ऽवः॒ । धियः॑ । वाजे॑भिः । आ॒वि॒थ॒ ॥नहि । ते । शूर । राधसः । अन्तम् । विन्दामि । सत्रा । दशस्य । नः । मघवन् । नु । चित् । अद्रिवः । धियः । वाजेभिः । आविथ ॥nahi | te | śūra | rādhasaḥ | antam | vindāmi | satrā | daśasya | naḥ | magha-van | nu | cit | adri-vaḥ | dhiyaḥ | vājebhiḥ | āvitha