Sukta 8.45
वि षु विश्वा अभियुजो वज्रिन्विष्वग्यथा वृह । भवा नः सुश्रवस्तमः ॥
वि षु विश्वा॑ अभि॒युजो॒ वज्रि॒न्विष्व॒ग्यथा॑ वृह । भवा॑ नः सु॒श्रव॑स्तमः ॥
ví ṣú víśvā abhiyújo vájrin víṣvag yáthā vṛ́ha | bhávā naḥ suśrávas-tamaḥ ||
Disperse utterly all who press upon us in assault, O wielder of the thunderbolt, in every direction; and become for us the most perfectly heard-of—most manifest in victorious fame and effective help.
वि । सु । विश्वाः॑ । अ॒भि॒ऽयुजः॑ । वज्रि॑न् । विष्व॑क् । यथा॑ । वृ॒ह॒ । भव॑ । नः॒ । सु॒श्रवः॑ऽतमः ॥वि । सु । विश्वाः । अभियुजः । वज्रिन् । विष्वक् । यथा । वृह । भव । नः । सुश्रवःतमः ॥vi | su | viśvāḥ | abhi-yujaḥ | vajrin | viṣvak | yathā | vṛha | bhava | naḥ | suśravaḥ-tamaḥ