Sukta 8.45
यदाजिं यात्याजिकृदिन्द्रः स्वश्वयुरुप । रथीतमो रथीनाम् ॥
यदा॒जिं यात्या॑जि॒कृदिन्द्र॑: स्वश्व॒युरुप॑ । र॒थीत॑मो र॒थीना॑म् ॥
yád ājím yā́ty āji-kṛ́d índraḥ svaśva-yúr úpa | rathī́-tamo rathī́nām ||
When Indra, the maker of victory, goes forth to the contest, desiring his own steeds, he comes near—most charioteer of charioteers—bringing the mastering force for our advance.
यत् । आ॒जिम् । याति॑ । आ॒जि॒ऽकृत् । इन्द्रः॑ । स्व॒श्व॒ऽयुः । उप॑ । र॒थिऽत॑मः । र॒थीना॑म् ॥यत् । आजिम् । याति । आजिकृत् । इन्द्रः । स्वश्वयुः । उप । रथितमः । रथीनाम् ॥yat | ājim | yāti | āji-kṛt | indraḥ | svaśva-yuḥ | upa | rathi-tamaḥ | rathīnām