Sukta 8.45
उत त्वं मघवञ्छृणु यस्ते वष्टि ववक्षि तत् । यद्वीळयासि वीळु तत् ॥
उ॒त त्वं म॑घवञ्छृणु॒ यस्ते॒ वष्टि॑ व॒वक्षि॒ तत् । यद्वी॒ळया॑सि वी॒ळु तत् ॥
utá tváṃ maghavan śṛṇu yás te váṣṭi vavákṣi tát | yád vīḷáyāsi vīḷú tát ||
And thou, O Maghavan, do hear: what one seeks from thee, that thou canst grant; and what thou holdest back, that too is held back—so let thy will turn wholly to our fulfilment.
उ॒त । त्वम् । म॒घ॒ऽव॒न् । शृ॒णु॒ । यः । ते॒ । वष्टि॑ । व॒वक्षि॑ । तत् । यत् । वी॒ळया॑सि । वी॒ळु । तत् ॥उत । त्वम् । मघवन् । शृणु । यः । ते । वष्टि । ववक्षि । तत् । यत् । वीळयासि । वीळु । तत् ॥uta | tvam | magha-van | śṛṇu | yaḥ | te | vaṣṭi | vavakṣi | tat | yat | vīḷayāsi | vīḷu | tat