Sukta 8.45
तरणिं वो जनानां त्रदं वाजस्य गोमतः । समानमु प्र शंसिषम् ॥
त॒रणिं॑ वो॒ जना॑नां त्र॒दं वाज॑स्य॒ गोम॑तः । स॒मा॒नमु॒ प्र शं॑सिषम् ॥
taraṇíṃ vo jánānāṃ tradáṃ vā́jasya gómataḥ | samānám u prá śaṃsiṣam ||
I will proclaim the same Indra to you as the crosser for peoples, the giver of the sustaining plenitude of force rich in rays of light.
त॒रणि॑म् । वः॒ । जना॑नाम् । त्र॒दम् । वाज॑स्य । गोऽम॑तः । स॒मा॒नम् । ऊँ॒ इति॑ । प्र । शं॒सि॒ष॒म् ॥तरणिम् । वः । जनानाम् । त्रदम् । वाजस्य । गोमतः । समानम् । ऊँ इति । प्र । शंसिषम् ॥taraṇim | vaḥ | janānām | tradam | vājasya | go--mataḥ | samānam | oṃ iti | pra | śaṃsiṣam