Sukta 8.45
अपिबत्कद्रुवः सुतमिन्द्रः सहस्रबाह्वे । अत्रादेदिष्ट पौंस्यम् ॥
अपि॑बत्क॒द्रुव॑: सु॒तमिन्द्र॑: स॒हस्र॑बाह्वे । अत्रा॑देदिष्ट॒ पौंस्य॑म् ॥
ápibat kadrúvaḥ sutám índraḥ sahásra-bāhve | átrā́dediṣṭa paúṃsyam ||
Indra drank the pressed Soma at Kadrū; there he made his manly power shine forth, in the thousand-armed might.
अपि॑बत् । क॒द्रुवः॑ । सु॒तम् । इन्द्रः॑ । स॒हस्र॑ऽबाह्वे । अत्र॑ । अ॒दे॒दि॒ष्ट॒ । पौंस्य॑म् ॥अपिबत् । कद्रुवः । सुतम् । इन्द्रः । सहस्रबाह्वे । अत्र । अदेदिष्ट । पौंस्यम् ॥apibat | kadruvaḥ | sutam | indraḥ | sahasra-bāhve | atra | adediṣṭa | paiṃsyam