Sukta 8.45
या वृत्रहा परावति सना नवा च चुच्युवे । ता संसत्सु प्र वोचत ॥
या वृ॑त्र॒हा प॑रा॒वति॒ सना॒ नवा॑ च चुच्यु॒वे । ता सं॒सत्सु॒ प्र वो॑चत ॥
yā́ vṛtra-hā parāváti sanā́ návā ca cucyuvé | tā́ saṃsát-su prá vocata ||
Those deeds of the Vṛtra-slayer, done in the far beyond—old and ever new—proclaim them forth in the assemblies.
या । वृ॒त्र॒ऽहा । प॒रा॒ऽवति॑ । सना॑ । नवा॑ । च॒ । चु॒च्यु॒वे । ता । सं॒सत्ऽसु॑ । प्र । वो॒च॒त॒ ॥या । वृत्रहा । परावति । सना । नवा । च । चुच्युवे । ता । संसत्सु । प्र । वोचत ॥yā | vṛtra-hā | parāvati | sanā | navā | ca | cucyuve | tā | saṃsat-su | pra | vocata