Sukta 8.45
आ त्वा रम्भं न जिव्रयो ररभ्मा शवसस्पते । उश्मसि त्वा सधस्थ आ ॥
आ त्वा॑ र॒म्भं न जिव्र॑यो रर॒भ्मा श॑वसस्पते । उ॒श्मसि॑ त्वा स॒धस्थ॒ आ ॥
ā́ tvā rambháṃ ná jivrā́yo rarabhmá śavasas-pate | uśmási tvā sadhástha ā́ ||
We have seized you as one seizes a support, O Lord of force; we desire you here in the common seat of being.
आ । त्वा॒ । र॒म्भम् । न । जिव्र॑यः । र॒र॒भ्म । श॒व॒सः॒ । प॒ते॒ । उ॒श्मसि॑ । त्वा॒ । स॒धऽस्थे॑ । आ ॥आ । त्वा । रम्भम् । न । जिव्रयः । ररभ्म । शवसः । पते । उश्मसि । त्वा । सधस्थे । आ ॥ā | tvā | rambham | na | jivrayaḥ | rarabhma | śavasaḥ | pate | uśmasi | tvā | sadha-sthe | ā