Sukta 8.45
यच्चिद्धि ते अपि व्यथिर्जगन्वांसो अमन्महि । गोदा इदिन्द्र बोधि नः ॥
यच्चि॒द्धि ते॒ अपि॒ व्यथि॑र्जग॒न्वांसो॒ अम॑न्महि । गो॒दा इदि॑न्द्र बोधि नः ॥
yác cid hí te ápi vyáthir jaganvā́ṃso ámanmahi | go-dā́ íd indra bodhi naḥ ||
Even if there is some wavering in you, we who journey have understood it; yet, as the giver of the rays, O Indra, awaken to us.
यत् । चि॒त् । हि । ते॒ । अपि॑ । व्यथिः॑ । ज॒ग॒न्वांसः॑ । अम॑न्महि । गो॒ऽदाः । इत् । इ॒न्द्र॒ । बो॒धि॒ । नः॒ ॥यत् । चित् । हि । ते । अपि । व्यथिः । जगन्वांसः । अमन्महि । गोदाः । इत् । इन्द्र । बोधि । नः ॥yat | cit | hi | te | api | vyathiḥ | jaganvāṃsaḥ | amanmahi | go--dāḥ | it | indra | bodhi | naḥ