Sukta 8.45
विद्मा हि त्वा धनंजयमिन्द्र दृळ्हा चिदारुजम् । आदारिणं यथा गयम् ॥
वि॒द्मा हि त्वा॑ धनंज॒यमिन्द्र॑ दृ॒ळ्हा चि॑दारु॒जम् । आ॒दा॒रिणं॒ यथा॒ गय॑म् ॥
vidmā́ hí tvā dhanam-jayám índra dṛḷhā́ cid ā-rújam | ādā́riṇaṃ yáthā gáyam ||
We know you, O Indra, as the conqueror of the plenitudes: you shatter even what is firm; you are the breaker-open, as (one breaks open) Gaya.
वि॒द्म । हि । त्वा॒ । ध॒न॒म्ऽज॒यम् । इन्द्र॑ । दृ॒ळ्हा । चि॒त् । आ॒ऽरु॒जम् । आ॒दा॒रिण॑म् । यथा॑ । गय॑म् ॥विद्म । हि । त्वा । धनम्जयम् । इन्द्र । दृळ्हा । चित् । आरुजम् । आदारिणम् । यथा । गयम् ॥vidma | hi | tvā | dhanam-jayam | indra | dṛḷhā | cit | ārujam | ādāriṇam | yathā | gayam