Sukta 8.45
ऊर्ध्वा हि ते दिवेदिवे सहस्रा सूनृता शता । जरितृभ्यो विमंहते ॥
ऊ॒र्ध्वा हि ते॑ दि॒वेदि॑वे स॒हस्रा॑ सू॒नृता॑ श॒ता । ज॒रि॒तृभ्यो॑ वि॒मंह॑ते ॥
ūrdhvā́ hí te divé-dive sahásrā sūnṛ́tā śatá | jaritṛ́bhyo vi-maṃ́hate ||
For yours, day by day, are uplifted—by the thousand, by the hundred—true and luminous words of right inspiration; they widen into bounty for the singers.
ऊ॒र्ध्वा । हि । ते॒ । दि॒वेऽदि॑वे । स॒हस्रा॑ । सू॒नृता॑ । श॒ता । ज॒रि॒तृऽभ्यः॑ । वि॒ऽमंह॑ते ॥ऊर्ध्वा । हि । ते । दिवेदिवे । सहस्रा । सूनृता । शता । जरितृभ्यः । विमंहते ॥ūrdhvā | hi | te | dive--dive | sahasrā | sūnṛtā | śatā | jaritṛ-bhyaḥ | vi-maṃhate