Sukta 8.45
वृज्याम ते परि द्विषोऽरं ते शक्र दावने । गमेमेदिन्द्र गोमतः ॥
वृ॒ज्याम॑ ते॒ परि॒ द्विषोऽरं॑ ते शक्र दा॒वने॑ । ग॒मेमेदि॑न्द्र॒ गोम॑तः ॥
vṛjyā́ma te pári dvíṣo áraṃ te śakra dā́vane | gaméméd índra gó-mataḥ ||
We would clear away the haters from around thee; sufficient art thou, O Shakra, for the giving. May we indeed come, O Indra, to the luminous riches—rich in rays of knowledge.
वृ॒ज्याम॑ । ते॒ । परि॑ । द्विषः॑ । अर॑म् । ते॒ । श॒क्र॒ । दा॒वने॑ । ग॒मेम॑ । इत् । इ॒न्द्र॒ । गोऽम॑तः ॥वृज्याम । ते । परि । द्विषः । अरम् । ते । शक्र । दावने । गमेम । इत् । इन्द्र । गोमतः ॥vṛjyāma | te | pari | dviṣaḥ | aram | te | śakra | dāvane | gamema | it | indra | go--mataḥ