Sukta 8.4
सहस्रेणेव सचते यवीयुधा यस्त आनळुपस्तुतिम् । पुत्रं प्रावर्गं कृणुते सुवीर्ये दाश्नोति नमउक्तिभिः ॥
स॒हस्रे॑णेव सचते यवी॒युधा॒ यस्त॒ आन॒ळुप॑स्तुतिम् । पु॒त्रं प्रा॑व॒र्गं कृ॑णुते सु॒वीर्ये॑ दा॒श्नोति॒ नम॑उक्तिभिः ॥
sahásreṇeva sacate yavī-yúdhā yás ta ā́naḷ úpa-stutim | putráṃ prā́vargaṃ kṛṇute su-vī́rye dā́śnoti náma-ukti-bhiḥ ||
He who attends you as if with a thousand youthful weapons, and reaches to you with his near-praise—he fashions a son as a forward-leading outcome in the field of heroic power; by words of reverent affirmation he attains the fulfilment.
स॒हस्रे॑णऽइव । स॒च॒ते॒ । य॒वि॒ऽयुधा॑ । यः । ते॒ । आन॑ट् । उप॑ऽस्तुतिम् । पु॒त्रम् । प्रा॒व॒र्गम् । कृ॒णु॒ते॒ । सु॒ऽवीर्ये॑ । दा॒श्नोति॑ । नम॑ऽउक्तिऽभिः ॥सहस्रेणइव । सचते । यवियुधा । यः । ते । आनट् । उपस्तुतिम् । पुत्रम् । प्रावर्गम् । कृणुते । सुवीर्ये । दाश्नोति । नमउक्तिभिः ॥sahasreṇa-iva | sacate | yavi-yudhā | yaḥ | te | ānaṭ | upa-stutim | putram | prāvargam | kṛṇute | su-vīrye | dāśnoti | nama-ukti-bhiḥ