Sukta 8.4
यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा । कण्वासस्त्वा ब्रह्मभिः स्तोमवाहस इन्द्रा यच्छन्त्या गहि ॥
यद्वा॒ रुमे॒ रुश॑मे॒ श्याव॑के॒ कृप॒ इन्द्र॑ मा॒दय॑से॒ सचा॑ । कण्वा॑सस्त्वा॒ ब्रह्म॑भि॒: स्तोम॑वाहस॒ इन्द्रा य॑च्छ॒न्त्या ग॑हि ॥
yád vā rumé rúśame śyā́vake kṛ́pe índra mā́dayase sácā | kaṇvā́sas tvā bráhma-bhiḥ stóma-vāhasa índrā́ yacchánty ā́ gahi ||
Whether with Ruma, with Ruśama, with Śyāvaka, with Kṛpa you take delight, O Indra, in companionship—yet the Kaṇvas, bearing hymns and mantras, draw you here: come, for our inspired words are your chariot.
यत् । वा॒ । रुमे॑ । रुश॑मे । श्याव॑के । कृपे॑ । इन्द्र॑ । मा॒दय॑से । सचा॑ । कण्वा॑सः । त्वा॒ । ब्रह्म॑ऽभिः । स्तोम॑ऽवाहसः । इन्द्र॑ । आ । य॒च्छ॒न्ति॒ । आ । ग॒हि॒ ॥यत् । वा । रुमे । रुशमे । श्यावके । कृपे । इन्द्र । मादयसे । सचा । कण्वासः । त्वा । ब्रह्मभिः । स्तोमवाहसः । इन्द्र । आ । यच्छन्ति । आ । गहि ॥yat | vā | rume | ruśame | śyāvake | kṛpe | indra | mādayase | sacā | kaṇvāsaḥ | tvā | brahma-bhiḥ | stoma-vāhasaḥ | indra | ā | yacchanti | ā | gahi