Sukta 8.4
यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणम् । आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब ॥
यथा॑ गौ॒रो अ॒पा कृ॒तं तृष्य॒न्नेत्यवेरि॑णम् । आ॒पि॒त्वे न॑: प्रपि॒त्वे तूय॒मा ग॑हि॒ कण्वे॑षु॒ सु सचा॒ पिब॑ ॥
yáthā gaúro apā́ kṛtáṃ tṛ́ṣyann éty avérīṇam | ā́pitve naḥ prapítve tū́yam ā́ gahi kaṇvéṣu sú sácā píba ||
As the pale-gold one, thirsting, goes to the water made ready, to the unfailing stream—so come swiftly to our approach and our full meeting; among the Kaṇvas drink in close companionship: let the inner delight be satisfied.
यथा॑ । गौ॒रः । अ॒पा । कृ॒तम् । तृष्य॑न् । एति॑ । अव॑ । इरि॑णम् । आ॒ऽपि॒त्वे । नः॒ । प्र॒ऽपि॒त्वे । तूय॑म् । आ । ग॒हि॒ । कण्वे॑षु । सु । सचा॑ । पिब॑ ॥यथा । गौरः । अपा । कृतम् । तृष्यन् । एति । अव । इरिणम् । आपित्वे । नः । प्रपित्वे । तूयम् । आ । गहि । कण्वेषु । सु । सचा । पिब ॥yathā | gauraḥ | apā | kṛtam | tṛṣyan | eti | ava | iriṇam | āpitve | naḥ | pra-pitve | tūyam | ā | gahi | kaṇveṣu | su | sacā | piba