Sukta 8.4
स्थूरं राधः शताश्वं कुरुङ्गस्य दिविष्टिषु । राज्ञस्त्वेषस्य सुभगस्य रातिषु तुर्वशेष्वमन्महि ॥
स्थू॒रं राध॑: श॒ताश्वं॑ कुरु॒ङ्गस्य॒ दिवि॑ष्टिषु । राज्ञ॑स्त्वे॒षस्य॑ सु॒भग॑स्य रा॒तिषु॑ तु॒र्वशे॑ष्वमन्महि ॥
sthūráṃ rā́dhaḥ śatā́śvaṃ kuruṅgásya díviṣṭiṣu | rājñás tvéṣasya su-bhágasya rātíṣu turváśeṣv amanmahi ||
We have recognised and held in mind the solid abundance—rich in a hundred steeds—among the heavenly-strivings of Kuruṅga, in the gifts of the impetuous and fortunate king, in the bestowals among the Turvaśas.
स्थू॒रम् । राधः॑ । श॒तऽअ॑श्वम् । कु॒रु॒ङ्गस्य॑ । दिवि॑ष्टिषु । राज्ञः॑ । त्वे॒षस्य॑ । सु॒ऽभग॑स्य । रा॒तिषु॑ । तु॒र्वशे॑षु । अ॒म॒न्म॒हि॒ ॥स्थूरम् । राधः । शतअश्वम् । कुरुङ्गस्य । दिविष्टिषु । राज्ञः । त्वेषस्य । सुभगस्य । रातिषु । तुर्वशेषु । अमन्महि ॥sthūram | rādhaḥ | śata-aśvam | kuruṅgasya | diviṣṭiṣu | rājñaḥ | tveṣasya | su-bhagasya | rātiṣu | turvaśeṣu | amanmahi