Sukta 8.4
परा गावो यवसं कच्चिदाघृणे नित्यं रेक्णो अमर्त्य । अस्माकं पूषन्नविता शिवो भव मंहिष्ठो वाजसातये ॥
परा॒ गावो॒ यव॑सं॒ कच्चि॑दाघृणे॒ नित्यं॒ रेक्णो॑ अमर्त्य । अ॒स्माकं॑ पूषन्नवि॒ता शि॒वो भ॑व॒ मंहि॑ष्ठो॒ वाज॑सातये ॥
parā́ gā́vo yávasaṃ kác cid āghṛṇe nítyaṃ rékṇo amartya | asmā́kaṃ pūṣann avitā́ śivó bhava máṃhiṣṭho vājá-sātaye ||
Even if the rays (cows) go far away to their pasture, O warmly-radiant Immortal, your richness remains constant. Be for us, O Pūṣan, a blissful protector; be the most bountiful for the winning of plenitude of force.
परा॑ । गावः॑ । यव॑सम् । कत् । चि॒त् । आ॒घृ॒णे॒ । नित्य॑म् । रेक्णः॑ । अ॒म॒र्त्य॒ । अ॒स्माक॑म् । पू॒ष॒न् । अ॒वि॒ता । शि॒वः । भ॒व॒ । मंहि॑ष्ठः । वाज॑ऽसातये ॥परा । गावः । यवसम् । कत् । चित् । आघृणे । नित्यम् । रेक्णः । अमर्त्य । अस्माकम् । पूषन् । अविता । शिवः । भव । मंहिष्ठः । वाजसातये ॥parā | gāvaḥ | yavasam | kat | cit | āghṛṇe | nityam | rekṇaḥ | amartya | asmākam | pūṣan | avitā | śivaḥ | bhava | maṃhiṣṭhaḥ | vāja-sātaye