Sukta 8.4
वेमि त्वा पूषन्नृञ्जसे वेमि स्तोतव आघृणे । न तस्य वेम्यरणं हि तद्वसो स्तुषे पज्राय साम्ने ॥
वेमि॑ त्वा पूषन्नृ॒ञ्जसे॒ वेमि॒ स्तोत॑व आघृणे । न तस्य॑ वे॒म्यर॑णं॒ हि तद्व॑सो स्तु॒षे प॒ज्राय॒ साम्ने॑ ॥
vémi tvā pūṣann ṛñjáse vémi stótava āghṛṇe | ná tásya vémya ráṇaṃ hí tád vaso stuṣé pajrā́ya sā́mne ||
I know you, O Pūṣan, in your straight-going leading; I know how to praise you, O warmly-radiant one. I do not know the limit of that abundance of yours; therefore I affirm you in the strong, firm chant of the Pajra.
वेमि॑ । त्वा॒ । पू॒ष॒न् । ऋ॒ञ्जसे॑ । वेमि॑ । स्तोत॑वे । आ॒घृ॒णे॒ । न । तस्य॑ । वे॒मि॒ । अर॑णम् । हि । तत् । व॒सो॒ इति॑ । स्तु॒षे । प॒ज्राय॑ । साम्ने॑ ॥वेमि । त्वा । पूषन् । ऋञ्जसे । वेमि । स्तोतवे । आघृणे । न । तस्य । वेमि । अरणम् । हि । तत् । वसो इति । स्तुषे । पज्राय । साम्ने ॥vemi | tvā | pūṣan | ṛñjase | vemi | stotave | āghṛṇe | na | tasya | vemi | araṇam | hi | tat | vaso iti | stuṣe | pajrāya | sāmne