Sukta 8.4
अध्वर्यो द्रावया त्वं सोममिन्द्रः पिपासति । उप नूनं युयुजे वृषणा हरी आ च जगाम वृत्रहा ॥
अध्व॑र्यो द्रा॒वया॒ त्वं सोम॒मिन्द्र॑: पिपासति । उप॑ नू॒नं यु॑युजे॒ वृष॑णा॒ हरी॒ आ च॑ जगाम वृत्र॒हा ॥
ádhvaryo drāvayā tváṁ sómam índraḥ pipāsati | úpa nū́naṁ yuyuje vṛ́ṣaṇā hárī ā́ ca jagāma vṛtra-hā́ ||
O Adhvaryu, make the Soma flow; Indra thirsts for it. Now he has yoked his two strong bay steeds; the slayer of the Coverer has come near.
अध्व॑र्यो॒ इति॑ । द्रा॒वय॑ । त्वम् । सोम॑म् । इन्द्रः॑ । पि॒पा॒स॒ति॒ । उप॑ । नू॒नम् । यु॒यु॒जे॒ । वृष॑णा । हरी॒ इति॑ । आ । च॒ । ज॒गा॒म॒ । वृ॒त्र॒ऽहा ॥अध्वर्यो इति । द्रावय । त्वम् । सोमम् । इन्द्रः । पिपासति । उप । नूनम् । युयुजे । वृषणा । हरी इति । आ । च । जगाम । वृत्रहा ॥adhvaryo iti | drāvaya | tvam | somam | indraḥ | pipāsati | upa | nūnam | yuyuje | vṛṣaṇā | harī iti | ā | ca | jagāma | vṛtra-hā