Sukta 8.4
स्वयं चित्स मन्यते दाशुरिर्जनो यत्रा सोमस्य तृम्पसि । इदं ते अन्नं युज्यं समुक्षितं तस्येहि प्र द्रवा पिब ॥
स्व॒यं चि॒त्स म॑न्यते॒ दाशु॑रि॒र्जनो॒ यत्रा॒ सोम॑स्य तृ॒म्पसि॑ । इ॒दं ते॒ अन्नं॒ युज्यं॒ समु॑क्षितं॒ तस्येहि॒ प्र द्र॑वा॒ पिब॑ ॥
svayáṁ cítsá manyate dā́śurir jáno yátrā sómasya tṛ́mpasi | idáṁ te ánnaṁ yújyaṁ sám-ukṣitaṁ tásyehi prá drava píba ||
Even the giver himself thinks (it is so): where you take satisfaction of Soma. This is your fitting food, well-sprinkled and prepared; come to it—run forth and drink.
स्व॒यम् । चि॒त् । सः । म॒न्य॒ते॒ । दाशु॑रिः । जनः॑ । यत्र॑ । सोम॑स्य । तृ॒म्पसि॑ । इ॒दम् । ते॒ । अन्न॑म् । युज्य॑म् । सम्ऽउ॑क्षितम् । तस्य॑ । इ॒हि॒ । प्र । द्र॒व॒ । पिब॑ ॥स्वयम् । चित् । सः । मन्यते । दाशुरिः । जनः । यत्र । सोमस्य । तृम्पसि । इदम् । ते । अन्नम् । युज्यम् । सम्उक्षितम् । तस्य । इहि । प्र । द्रव । पिब ॥svayam | cit | saḥ | manyate | dāśuriḥ | janaḥ | yatra | somasya | tṛmpasi | idam | te | annam | yujyam | sam-ukṣitam | tasya | ihi | pra | drava | piba