Sukta 8.36
जनिताश्वानां जनिता गवामसि पिबा सोमं मदाय कं शतक्रतो । यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते ॥
ज॒नि॒ताश्वा॑नां जनि॒ता गवा॑मसि॒ पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो । यं ते॑ भा॒गमधा॑रय॒न्विश्वा॑: सेहा॒नः पृत॑ना उ॒रु ज्रय॒: सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते ॥
janitā́śvānāṃ janitā́ gávām asi píbā sómaṃ mádāya káṃ śatakrato | yáṃ te bhāgám adhārayan víśvāḥ sehānáḥ pṛ́tanā urú jráyaḥ sám apsu-jín marútvān indra sat-pate ||
Begetter of the Horses and begetter of the Cows art thou; drink the Soma for the ecstasy of joy, O hundred-powered. The share of force and delight which all the struggles have founded in thee—advance with wide victorious drive; conquer in the waters of the depth, O Indra with the Maruts, lord of the true being.
ज॒नि॒ता । अश्वा॑नाम् । ज॒नि॒ता । गवा॑म् । अ॒सि॒ पिब॑ । सोम॑म् । मदा॑य । कम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । यम् । ते॒ । भा॒गम् । अधा॑रयन् । विश्वाः॑ । से॒हा॒नः । पृत॑नाः । उ॒रु । ज्रयः॑ । सम् । अ॒प्सु॒ऽजित् । म॒रुत्वा॑न् । इ॒न्द्र॒ । स॒त्ऽप॒ते॒ ॥जनिता । अश्वानाम् । जनिता । गवाम् । असि पिब । सोमम् । मदाय । कम् । शतक्रतो इति शतक्रतो । यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सुजित् । मरुत्वान् । इन्द्र । सत्पते ॥janitā | aśvānām | janitā | gavām | asipiba | somam | madāya | kam | śatakrato itiśata-krato | yam | te | bhāgam | adhārayan | viśvāḥ | sehānaḥ | pṛtanāḥ | uru | jrayaḥ | sam | apsu-jit | marutvān | indra | sat-pate