Sukta 8.36
जनिता दिवो जनिता पृथिव्याः पिबा सोमं मदाय कं शतक्रतो । यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते ॥
ज॒नि॒ता दि॒वो ज॑नि॒ता पृ॑थि॒व्याः पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो । यं ते॑ भा॒गमधा॑रय॒न्विश्वा॑: सेहा॒नः पृत॑ना उ॒रु ज्रय॒: सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते ॥
janitā divó janitā pṛthivyā́ḥ píbā sómaṃ mádāya káṃ śatakrato | yáṃ te bhāgám adhārayan víśvāḥ sehānáḥ pṛ́tanā urú jráyaḥ sám apsu-jín marútvān indra sat-pate ||
O Indra, master of a hundred powers, be the begetter of our higher heaven and our wide earth; drink the Soma for the ecstasy that enlarges the being. That share of delight which all the striving battles have set in thee—press forward with vast victorious momentum; win even in the deep waters, O Indra with the Maruts, lord of the true path.
ज॒नि॒ता । दि॒वः । ज॒नि॒ता । पृ॒थि॒व्याः । पिब॑ । सोम॑म् । मदा॑य । कम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । यम् । ते॒ । भा॒गम् । अधा॑रयन् । विश्वाः॑ । से॒हा॒नः । पृत॑नाः । उ॒रु । ज्रयः॑ । सम् । अ॒प्सु॒ऽजित् । म॒रुत्वा॑न् । इ॒न्द्र॒ । स॒त्ऽप॒ते॒ ॥जनिता । दिवः । जनिता । पृथिव्याः । पिब । सोमम् । मदाय । कम् । शतक्रतो इति शतक्रतो । यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सुजित् । मरुत्वान् । इन्द्र । सत्पते ॥janitā | divaḥ | janitā | pṛthivyāḥ | piba | somam | madāya | kam | śatakrato itiśata-krato | yam | te | bhāgam | adhārayan | viśvāḥ | sehānaḥ | pṛtanāḥ | uru | jrayaḥ | sam | apsu-jit | marutvān | indra | sat-pate