Sukta 8.36
ऊर्जा देवाँ अवस्योजसा त्वां पिबा सोमं मदाय कं शतक्रतो । यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वाँ इन्द्र सत्पते ॥
ऊ॒र्जा दे॒वाँ अव॒स्योज॑सा॒ त्वां पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो । यं ते॑ भा॒गमधा॑रय॒न्विश्वा॑: सेहा॒नः पृत॑ना उ॒रु ज्रय॒: सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते ॥
ūrjā́ devā́ṃ avasy ójasā tvāṃ píbā sómaṃ mádāya káṃ śatakrato | yáṃ te bhāgám ádhārayan víśvāḥ sehānáḥ pṛ́tanāḥ urú jráyaḥ sám apsu-jín marútvān índra sat-pate ||
By plenitude you support the gods; by force you are the saving help—drink the Soma for ecstasy, O hundred-powered. With the portion set for you, overcome all battles, win the wide-going impetus and the victory in the depths, O Indra, lord of the true, with the Maruts.
ऊ॒र्जा । दे॒वान् । अव॑सि । ओज॑सा । त्वाम् । पिब॑ । सोम॑म् । मदा॑य । कम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । यम् । ते॒ । भा॒गम् । अधा॑रयन् । विश्वाः॑ । से॒हा॒नः । पृत॑नाः । उ॒रु । ज्रयः॑ । सम् । अ॒प्सु॒ऽजित् । म॒रुत्वा॑न् । इ॒न्द्र॒ । स॒त्ऽप॒ते॒ ॥ऊर्जा । देवान् । अवसि । ओजसा । त्वाम् । पिब । सोमम् । मदाय । कम् । शतक्रतो इति शतक्रतो । यम् । ते । भागम् । अधारयन् । विश्वाः । सेहानः । पृतनाः । उरु । ज्रयः । सम् । अप्सुजित् । मरुत्वान् । इन्द्र । सत्पते ॥ūrjā | devān | avasi | ojasā | tvām | piba | somam | madāya | kam | śatakrato itiśata-krato | yam | te | bhāgam | adhārayan | viśvāḥ | sehānaḥ | pṛtanāḥ | uru | jrayaḥ | sam | apsu-jit | marutvān | indra | sat-pate