Sukta 8.35
श्येनाविव पतथो हव्यदातये सोमं सुतं महिषेवाव गच्छथः । सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना ॥
श्ये॒नावि॑व पतथो ह॒व्यदा॑तये॒ सोमं॑ सु॒तं म॑हि॒षेवाव॑ गच्छथः । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ त्रिर्व॒र्तिर्या॑तमश्विना ॥
śyenā́v iva patatho havya-dā́taye sómaṃ sutáṃ mahiṣévaáva gacchathaḥ | sajóṣasā uṣásā sū́ryeṇa ca trír-vartír yātam aśvinā ||
Like two falcons you fly for the giving of the offering; like two mighty bulls you draw near to the pressed Soma. In one accord with Dawn and with the Sun, come to us by the triple turning of your course, O Aśvins.
श्ये॒नौऽइ॑व । प॒त॒थः॒ । ह॒व्यऽदा॑तये । सोम॑म् । सु॒तम् । म॒हि॒षाऽइ॑व । अव॑ । ग॒च्छ॒थः॒ । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥श्येनौइव । पतथः । हव्यदातये । सोमम् । सुतम् । महिषाइव । अव । गच्छथः । सजोषसौ । उषसा । सूर्येण । च । सोमम् । पिबतम् । अश्विना ॥śyenau-iva | patathaḥ | havya-dātaye | somam | sutam | mahiṣāiva | ava | gacchathaḥ | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā