Sukta 8.35
पिबतं च तृप्णुतं चा च गच्छतं प्रजां च धत्तं द्रविणं च धत्तम् । सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥
पिब॑तं च तृप्णु॒तं चा च॑ गच्छतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥
píbataṃ ca tṛpṇutáṃ cā́ ca gacchataṃ pra-jā́ṃ ca dhattáṃ dráviṇaṃ ca dhattam | sajóṣasā uṣásā sū́ryeṇa córjaṃ no dhattam aśvinā ||
Drink and be satisfied, and come to us; grant us also the soul’s progeny and grant the plenitude of substance. In one accord with Dawn and with the Sun, bestow on us the sustaining energy, O Aśvins.
पिब॑तम् । च॒ । तृ॒प्णु॒तम् । च॒ । आ । च॒ । ग॒च्छ॒त॒म् । प्र॒ऽजाम् । च॒ । ध॒त्तम् । द्रवि॑णम् । च॒ । ध॒त्त॒म् । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥पिबतम् । च । तृप्णुतम् । च । आ । च । गच्छतम् । प्रजाम् । च । धत्तम् । द्रविणम् । च । धत्तम् । सजोषसौ । उषसा । सूर्येण । च । सोमम् । पिबतम् । अश्विना ॥pibatam | ca | tṛpṇutam | ca | ā | ca | gacchatam | pra-jām | ca | dhattam | draviṇam | ca | dhattam | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā