Sukta 8.35
हारिद्रवेव पतथो वनेदुप सोमं सुतं महिषेवाव गच्छथः । सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना ॥
हा॒रि॒द्र॒वेव॑ पतथो॒ वनेदुप॒ सोमं॑ सु॒तं म॑हि॒षेवाव॑ गच्छथः । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ त्रिर्व॒र्तिर्या॑तमश्विना ॥
hāridravéva patatho váned úpa sómaṃ sutáṃ mahiṣéva vā́va gacchathaḥ | sajóṣasā uṣásā sū́ryeṇa ca trír-vartír yātam aśvinā ||
Like two yellow birds you fly from the forest; like two mighty bulls you come down towards the pressed Soma. In one accord with Dawn and Sun, come to us by the threefold turning of your path, O Aśvins.
हा॒रि॒द्र॒वाऽइ॑व । प॒त॒थः॒ । वना॑ । इत् । उप॑ । सोम॑म् । सु॒तम् । म॒हि॒षाऽइ॑व । अव॑ । ग॒च्छ॒थः॒ । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥हारिद्रवाइव । पतथः । वना । इत् । उप । सोमम् । सुतम् । महिषाइव । अव । गच्छथः । सजोषसौ । उषसा । सूर्येण । च । सोमम् । पिबतम् । अश्विना ॥hāridravāiva | patathaḥ | vanā | it | upa | somam | sutam | mahiṣāiva | ava | gacchathaḥ | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā