Sukta 8.35
गिरो जुषेथामध्वरं जुषेथां विश्वेह देवौ सवनाव गच्छतम् । सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ॥
गिरो॑ जुषेथामध्व॒रं जु॑षेथां॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतम् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चेषं॑ नो वोळ्हमश्विना ॥
gíro juṣéthām adhvaráṃ juṣéthāṃ viśvéha devau sávānāva gacchatam | sajóṣasā uṣásā sū́ryeṇa ceṣaṃ no voḷham aśvinā ||
Accept our songs; accept the path of sacrifice. Come here, O two gods, to all the pressings. In one accord with Dawn and Sun, carry to us the sustaining impulse of your help, O Aśvins.
गिरः॑ । जु॒षे॒था॒म् । अ॒ध्व॒रम् । जु॒षे॒था॒म् । विश्वा॑ । इ॒ह । दे॒वौ॒ । सव॑ना । अव॑ । ग॒च्छ॒त॒म् । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥गिरः । जुषेथाम् । अध्वरम् । जुषेथाम् । विश्वा । इह । देवौ । सवना । अव । गच्छतम् । सजोषसौ । उषसा । सूर्येण । च । सोमम् । पिबतम् । अश्विना ॥giraḥ | juṣethām | adhvaram | juṣethām | viśvā | iha | devau | savanā | ava | gacchatam | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā