Sukta 8.35
स्तोमं जुषेथां युवशेव कन्यनां विश्वेह देवौ सवनाव गच्छतम् । सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ॥
स्तोमं॑ जुषेथां युव॒शेव॑ क॒न्यनां॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतम् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चेषं॑ नो वोळ्हमश्विना ॥
stómaṃ juṣéthāṃ yuvaśéva kanyánāṃ viśvéha devau sávānāva gacchatam | sajóṣasā uṣásā sū́ryeṇa ceṣaṃ no voḷham aśvinā ||
Accept the hymn of praise as young men accept maidens with joy; come here, O two gods, to all the pressings. In one accord with Dawn and Sun, carry to us the effective nourishment of your aid, O Aśvins.
स्तोम॑म् । जु॒षे॒था॒म् । यु॒व॒शाऽइ॑व । क॒न्यना॑म् । विश्वा॑ । इ॒ह । दे॒वौ॒ । सव॑ना । अव॑ । ग॒च्छ॒त॒म् । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥स्तोमम् । जुषेथाम् । युवशाइव । कन्यनाम् । विश्वा । इह । देवौ । सवना । अव । गच्छतम् । सजोषसौ । उषसा । सूर्येण । च । सोमम् । पिबतम् । अश्विना ॥stomam | juṣethām | yuvaśāiva | kanyanām | viśvā | iha | devau | savanā | ava | gacchatam | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā