Sukta 8.35
विश्वैर्देवैस्त्रिभिरेकादशैरिहाद्भिर्मरुद्भिर्भृगुभिः सचाभुवा । सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ॥
विश्वै॑र्दे॒वैस्त्रि॒भिरे॑काद॒शैरि॒हाद्भिर्म॒रुद्भि॒र्भृगु॑भिः सचा॒भुवा॑ । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ पिबतमश्विना ॥
viśváir deváis tribhír ekādaśáir ihā́dbhir marúdbhir bhṛ́gubhiḥ sacābhúvā | sajóṣasā uṣásā sū́ryeṇa ca sómaṃ pibatam aśvinā ||
With all the gods—by the thrice-eleven powers—here with the Waters, with the Maruts, with the Bhṛgus in companionship—harmonized with Dawn and Sun—drink the Soma, O Aśvins, and set the many divine energies to work in us.
विश्वैः॑ । दे॒वैः । त्रि॒ऽभिः । ए॒का॒द॒शैः । इ॒ह । अ॒त्ऽभिः । म॒रुत्ऽभिः । भृगु॑ऽभिः । स॒चा॒ऽभुवा॑ । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥विश्वैः । देवैः । त्रिभिः । एकादशैः । इह । अत्भिः । मरुत्भिः । भृगुभिः । सचाभुवा । सजोषसौ । उषसा । सूर्येण । च । सोमम् । पिबतम् । अश्विना ॥viśvaiḥ | devaiḥ | tri-bhiḥ | ekādaśaiḥ | iha | at-bhiḥ | marut-bhiḥ | bhṛgu-bhiḥ | sacābhuvā | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā