Sukta 8.35
विश्वाभिर्धीभिर्भुवनेन वाजिना दिवा पृथिव्याद्रिभिः सचाभुवा । सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ॥
विश्वा॑भिर्धी॒भिर्भुव॑नेन वाजिना दि॒वा पृ॑थि॒व्याद्रि॑भिः सचा॒भुवा॑ । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ पिबतमश्विना ॥
viśvā́bhir dhībhír bhúvanena vā́jinā divā́ pṛthivyā́dríbhiḥ sacābhúvā | sajóṣasā uṣásā sū́ryeṇa ca sómaṃ pibatam aśvinā ||
With all the inspired thoughts, with the world and its plenitude of force, with Heaven and Earth, with the pressing-stones in companionship—harmonized with Dawn and Sun—drink the Soma, O Aśvins, and make our consciousness a fit vessel of that delight.
विश्वा॑भिः । धी॒भिः । भुव॑नेन । वा॒जि॒ना॒ । दि॒वा । पृ॒थि॒व्या । अद्रि॑ऽभिः । स॒चा॒ऽभुवा॑ । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥विश्वाभिः । धीभिः । भुवनेन । वाजिना । दिवा । पृथिव्या । अद्रिभिः । सचाभुवा । सजोषसौ । उषसा । सूर्येण । च । सोमम् । पिबतम् । अश्विना ॥viśvābhiḥ | dhībhiḥ | bhuvanena | vājinā | divā | pṛthivyā | adri-bhiḥ | sacābhuvā | sa-joṣasau | uṣasā | sūryeṇa | ca | somam | pibatam | aśvinā