Sukta 8.35
नमोवाके प्रस्थिते अध्वरे नरा विवक्षणस्य पीतये । आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥
न॒मो॒वा॒के प्रस्थि॑ते अध्व॒रे न॑रा वि॒वक्ष॑णस्य पी॒तये॑ । आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥
namovā́ke prá-sthite adhvaré narā vivákṣaṇasya pītáye | ā́ yātam aśvinā́ ā́ gátam avasyúr vā́m aháṃ huve dhattáṃ rátnāni dāśúṣe ||
In the rite set forth with the word of obeisance, O you two strong ones, for the drinking of Vivakṣaṇa—come, O Aśvins, arrive. Seeking your saving help I call you: bestow the treasures of realization upon the giver.
न॒मः॒ऽवा॒के । प्रऽस्थि॑ते । अ॒ध्व॒रे । न॒रा॒ । वि॒वक्ष॑णस्य । पी॒तये॑ । आ । या॒त॒म् । अ॒श्वि॒ना॒ । आ । ग॒त॒म् । अ॒व॒स्युः । वा॒म् । अ॒हम् । हु॒वे॒ । ध॒त्तम् । रत्ना॑नि । दा॒शुषे॑ ॥नमःवाके । प्रस्थिते । अध्वरे । नरा । विवक्षणस्य । पीतये । आ । यातम् । अश्विना । आ । गतम् । अवस्युः । वाम् । अहम् । हुवे । धत्तम् । रत्नानि । दाशुषे ॥namaḥ-vāke | pra-sthite | adhvare | narā | vivakṣaṇasya | pītaye | ā | yātam | aśvinā | ā | gatam | avasyuḥ | vām | aham | huve | dhattam | ratnāni | dāśuṣe